|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.217. अध्यायः 217
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
पार्वत्या ब्राह्मण्यादिकं किं स्वाभाविकं उत कर्माधीनमिति प्रश्ने ईश्वरेण तस्य कर्माधीनत्वप्रतिपादनम्॥ 1 ॥ तथा प्राणिनां भोगाभोगादेः स्वस्वकर्मायत्तत्वप्रतिपादनम्॥ 2 ॥
Mahabharata - Anushaasana Parva - Chapter Text
उमोवाच।
भगवन्भगनेत्रघ्न कालसूदन शङ्कर।
इमे वर्णाश्च चत्वारो विहिताः स्वस्वभावतः।
उताहो क्रियया वर्णाः सम्भवन्ति महेश्वर॥ 13-217-1(89897)
एवं मे संशयप्रश्नस्तं मे छेत्तुं त्वमर्हसि॥ 13-217-2(89898)
महेश्वर उवाच। 13-217-3x(7491)
स्वभावादेव विद्यन्ते चत्वारो ब्राह्मणादयः।
एकजात्या सुदुष्प्रापमन्यवर्णत्वमागतम्॥ 13-217-3(89899)
तच्च कर्मविशेषेण पुनर्जन्मनि जायते।
तस्मात्तेषां प्रवक्ष्यामि तत्सर्वं कर्मपाकजम् 13-217-4(89900)
ब्राह्मणस्तु नरो भूत्वा स्वजातिमनुपालयन्।
दृढं ब्राह्मणकर्माणि वेदोक्तानि समाचरेत्॥ 13-217-5(89901)
सत्यार्जवपरो भूत्वा दानयज्ञपरस्तथा।
सत्यां जात्यां समुदितो जातिधर्मान्न हापयेत्॥ 13-217-6(89902)
एवं संवर्तमानस्तु कालधर्मं गतः पुनः।
स्वर्गलोके हि जायेत स्वर्गभोगाय भामिनि॥ 13-217-7(89903)
तत्क्षये ब्राह्मणो भूत्वा तथैव नृषु जायते।
एवंस्वकर्मणा मर्त्यः स्वजातिं लभते पुनः॥ 13-217-8(89904)
अपरस्तु तथा कश्चिद्ब्रह्मयोनिसमुद्भवः।
अवमत्यैव तां जातिमज्ञानतमसा वृतः॥ 13-217-9(89905)
अन्यथा वर्तमानस्तु जातिकर्माणि वर्जयेत्।
शूद्रवद्विचरेल्लोके शूद्रकर्माभिलाषवान्।
शूद्रैः सह चरन्नित्यं शौचमङ्गलवर्जितः। 13-217-10(89906)
स चापि कालधर्मस्थो यमलोके सुदण्डितः।
यदि जायेत मर्त्येषु शूद्र एवाभिजायते॥ 13-217-11(89907)
शूद्र एव भवेद्देवि ब्राह्मणोऽपि स्वकर्मणा॥ 13-217-12(89908)
तथैव शूद्रस्त्वपरः शूद्रकर्माणि वर्जयेत्।
सत्यार्जवपरो भूत्वा दानधर्मपरस्तथा।
मन्त्रब्राह्मणसत्कर्ता मनसा ब्राह्मणप्रियः॥ 13-217-13(89909)
एवं युक्तसमाचारः शूद्रोपि मरणं गतः।
स्वर्गलोके हि जायेत तत्क्षये नृषु जायते।
ब्राह्मणानां कुले मुख्ये वेदस्वाध्यायसंयुते॥ 13-217-14(89910)
एवमेव सदा लोके शूद्रो ब्राह्मण्यमाप्नुयात्॥ 13-217-15(89911)
एवं क्षत्रियवैश्याश्च जातिधर्मेण संयुताः।
स्वकर्मणैव जायन्ते विशिष्टेष्वधमेषु च॥ 13-217-16(89912)
एवं जातिविपर्यासः प्रेत्यभावे भवेन्नृणाम्।
अन्यथा तु न शक्यं तल्लोकसंस्थितिकारणात्॥ 13-217-17(89913)
तस्माज्जातिं विशिष्टां तु कथंचित्प्राप्य पण्डितः।
सर्वथा तां तथा रक्षेन्न पुनर्भ्रश्यते यथा।
इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि॥ 13-217-18(89914)
उमोवाच। 13-217-19x(7492)
जन्मप्रभृति कः शुद्धो लभेज्जन्मफलं नरः।
शोभनाशोभनं सर्वमधइकारवशात्स्वकम्॥ 13-217-19(89915)
महेश्वर उवाच। 13-217-20x(7493)
कर्म कुर्वन्न लिप्येत आर्जवेन समाचरेत्।
आत्मैव तच्छुभं कुर्यादशुभे योजयेत्परान्॥ 13-217-20(89916)
शठेषु शठवत्कुर्योदार्यष्वार्यवदाचरेत्।
आपत्सु नावसीदेच्च घोरान्सङ्ग्रामयेत्परात्।
साम्नैव सर्वकार्याणि कर्तुं पूर्वं समारभेत्॥ 13-217-21(89917)
अनर्थाधर्मशोकानां यथा न प्राप्नुयात्स्वयम्।
प्रीयते तत्तथा कर्तुमेतद्वृत्तं समासतः॥ 13-217-22(89918)
एवं वृत्तं समासाद्य गृहमाश्रित्य मानवाः।
निराहारा निरुद्वेगाः प्राप्नुवन्त्युत्तमां गतिम्॥ 13-217-23(89919)
एतज्जन्मफलं नित्यं सर्वेषां गृहवासिनाम्।
एवं गृहस्थितैर्नित्यं वर्तितव्यमिति स्थितिः।
एतत्सर्वं मया प्रोक्तं किं भूयः श्रोतुमिच्छसि॥ 13-217-24(89920)
उमोवाच। 13-217-25x(7494)
सुरासुरपते देव वरद प्रीतिवर्धन।
मानुषेष्वेव ये के चिदाढ्याः क्लेशविवर्जिताः।
भुञ्जाना विविधान्भोगान्दृश्यन्ते निरुपद्रवाः॥ 13-217-25(89921)
अपरे क्लेशसंयुक्ता दरिद्रा भोगवर्जिताः॥ 13-217-26(89922)
किमर्थं मानुषे लोके न समत्वेन कल्पिताः।
एतच्छ्रोतुं महादेव कौतूहलमतीव मे॥ 13-217-27(89923)
महेश्वर उवाच। 13-217-28x(7495)
न्यायतस्त्वं महाभागे श्रोतुकामासि भामिनि।
शृणु तत्सर्वमखिलं मानुषाणां हितं वचः॥ 13-217-28(89924)
आदिसर्गे पुरा ब्रह्मा समत्वेनासृजत्प्रजाः।
नित्यं न भवतो ह्यस्य रागद्वेषौ प्रजापतेः।
तदा तस्मात्सुराः सर्वे बभूवुः समतो नराः॥ 13-217-29(89925)
एवं संवर्तमाने तु युगे कालविपर्ययात्।
केचित्प्रपेदिरे तत्र विषमं बुद्धिमोहिताः॥ 13-217-30(89926)
तेषां हानिं ततो दृष्ट्वा तुल्यानामेव भामिनि।
ब्राह्मणास्ते समाजग्मुस्तत्तत्कारणवेदकाः॥ 13-217-31(89927)
कर्तुं नार्हसि देवेश पक्षपातं त्वमीदृशम्।
पुत्रभावे समे देव किमर्थं नो भवेत्कलिः॥ 13-217-32(89928)
एवमेतैरुपालब्धो ब्रह्मा वचनमब्रवीत्।
यूयं मा ब्रूत मे दोषं स्वकृतं स्मरथ प्रजाः॥ 13-217-33(89929)
युष्माभिरेव युष्माकं ग्रथितं हि शुभाशुभम्।
यादृशं कुरुते कर्म तादृशं फलमश्नुते।
स्वकृतस्य फलं भुङ्क्ते नान्यस्तद्बोक्तुमर्हति॥ 13-217-34(89930)
एवं संबोधितास्तेन कालकर्त्रा स्वयंभुवा।
पुनर्विवृत्य कर्माणि शुभान्येव प्रपेदिरे॥ 13-217-35(89931)
एवं विज्ञाततत्वास्ते दानधर्मपरायणाः।
शुभानि विधिवत्कृत्वा कालधर्मगताः पुनः।
तानि दानफलान्येव भुञ्जते सुखभोगिनः॥ 13-217-36(89932)
स्वकृतं तु नरस्तस्मात्स्वयमेव प्रपद्यते॥ 13-217-37(89933)
अपरे धर्मकामेभ्यो निवृत्ताश्च शुभेक्षणे।
कदर्या निरनुक्रोशाः प्रायेणात्मपरायणाः॥ 13-217-38(89934)
तादृशा मरणं प्राप्ताः पुनर्जन्मनि शोभने।
दरिद्राः क्लेशभूयिष्ठा भवन्त्येव न संशयः॥ 13-217-39(89935)
उमोवाच। 13-217-40x(7496)
मानुषेष्वथ ये केचिद्धनधान्यसमन्विताः।
भोगहीनाः प्रदृश्यन्ते सर्वभोगेषु सत्स्वपि।
न भुञ्जते किमर्थं ते तन्मे शंसितुमर्हसि॥ 13-217-40(89936)
महेश्वर उवाच। 13-217-41x(7497)
परैः संचोदिता धर्मं कुर्वते न स्वकामतः।
स्वयं श्रद्धां बहिष्कृत्य कुर्वन्ति च रुदन्ति च॥ 13-217-41(89937)
तादृशा मरणं प्राप्ताः पुनर्जन्मनि शोभने।
फलानि तानि सम्प्राप्य भुञ्जते न कदाचन।
रक्षन्तो वर्धयन्तश्च आसते निधिपालवत्॥ 13-217-42(89938)
उमोवाच। 13-217-43x(7498)
केचिद्धनवियुक्ताश्च भोगयुक्ता महेश्वर।
मानुषाः सम्प्रदृश्यन्ते तन्मे शंसितुमर्हसि॥ 13-217-43(89939)
महेश्वर उवाच। 13-217-44x(7499)
आनृशंस्यपरा ये तु धर्मकामाश्चि दुर्गताः।
परोपकारं कुर्वन्ति दीनानुग्रहकारणात्॥ 13-217-44(89940)
प्रतिपद्युः परधनं नष्टं वाऽन्यैर्नरैर्हृतम्।
नित्यं ये दातुमनसो नरा वित्तेष्वसत्स्वपि॥ 13-217-45(89941)
कालधर्मवशं प्राप्ताः पुनर्जन्मनि ते नराः।
एते धनविहीनाश्च भोगयुक्ता भवन्त्युत॥ 13-217-46(89942)
धर्मदानोपदेशं वा कर्तव्यमिति निश्चयः।
इति ते कथितं देवि किं भूयः श्रोतुमिच्छसि॥ ॥ 13-217-47(89943)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तदशाधिकद्विशततमोऽध्यायः॥ 217 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|